SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भागमो. द्वारककृति पर्युषणा सन्दोहे ॥५२॥ .. शुद्धिरुपलक्षणं विध्यादीनां, व्यवहारभाष्यादिषु तथा स्पष्टितत्वात् । अन्यच्च भगवद्भिः श्रीकालकाचार्यः युगप्रधानैरपि 'अंतरावि से कप्पइत्ति पर्युपणाकल्पवचनमाश्रित्य तत् परावर्तितं न तु स्वातन्त्र्येणः। ननु च तद्वचनं तु नियतावस्थानरूपपर्युषणाविषयं न तु सांवत्सरिकविषयं । न चान्यार्थमुत्सृष्टमन्यार्थेनापोद्यते इति चेत् । सत्यम् , अवस्थानपर्युषणा हि पञ्चरात्रकल्पकर्षणसाध्यत्वेन पञ्चशत्रसाध्या, गृहस्थानां पुरतो निर्णीतोक्तिरूपा तु षष्ठादिदिवससाध्येति । 'तं स्यणि'ति सांवत्सरिकमनुलक्षयति नान्यथा, युगप्रधानाः सांवत्सरिकपरावर्ते क्रियमाणे तदुदाहरिष्यनिति । ननु चतुर्थ्यां भगवद्भिः सांवत्सरिकं प्रवर्तितं, भगवद्भिर्णिकारैरपि तामुद्दिश्य 'पवत्तिये'त्युक्तं, परं तस्या अपर्वत्वं, इयाणिं कहं अपव्वेत्ति वचनादुरीकृतमिति । सत्यम् , पञ्चम्यां स्थितिमत् तिथिपूरणीकरणरूपं पर्व आराधनाकालरूपं च पर्वत्वं न परावर्तितं । अत एव तस्या हानौ वृद्धौ वा 'क्षये पूर्वे' ति प्रघोषमाश्रित्य यावत्सम्भवेति न्यायेन पूर्णिमामावास्ययोर्हानौ वृद्धौ यथा भवति तथा पूर्वतन्यास्तृतीयाया एव क्षयो वृद्धिर्वा क्रियते । ननु चतुर्दश्याः पर्वतिथित्वाद्भवतु पूर्वतन्या हानिवृद्धिर्वा, चतुर्थी तथा नेति किं तथाकृतिरिति ?, यथा कल्याणकदिनानां स्वयं पर्वतिथित्वाभावेऽपि पुण्यकृत्यसम्बन्धात् पर्वतिथित्वं तथा चतुर्थ्या अपि सांवत्सरिकपुण्यकृत्यसम्बन्धात् पर्वत्वमबाधमेव, अन्यथा तच्चतुर्थ्या हानौ वृद्धौ वा न 'क्षये पूर्वा तिथि'रितिप्रघोषोऽवलम्बनं भवेत् , तदनवलम्बने तु तथाप्रसङ्गे सांवत्सरिकलोपादि दुर्वारमेव । पर्वतिथिपरिगणनादिषु पञ्चम्या भिन्नत्वेन सांवत्सरिकस्य पर्वत्वेन भणनमपि तस्याश्चतुर्थ्याः पर्वत्वमेव प्रतिपादयतीति । किश्चास्याश्चतुर्थ्या अपर्वत्वे चातुर्मासिकस्यापि चतुर्दश्यां परावृत्तेस्तत्क्षये पूर्णिमाया वा त्रयोदश्यां चातुर्मासिककरणमयुक्ततरं स्यात् । ननु चतुर्दश्येव व्यपदिश्यते, न त्रयोदशीति, आराध्यतिथेळपदेशपूर्वमेव 'छण्हं तिहीणे'तिवचनादाराधनादितिचेत् । A ॥५२॥ ॥५२॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy