SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगमों द्वारककृति सन्दोहे ॥ ४९ ॥ परतस्तथा तिथिपरावृत्तिः कथमौचितिमञ्चति ? इति चेद् । परं प्रागेव प्रतिपादितं यत्संवत्सर दिनान्तमनन्तानुबन्धिनामभाव इति द्वितीयवर्षेऽन्यदा च सत्यम्, तथा चतुर्थ्यां सांवत्सरिकस्यापातो दुर्धरः स्यादिति । अत एव सा परावृत्तिराचरणारूपा नतु व्यक्तिकृतिरू पेति सुधियमिति । एतत्सर्वमपि खरतरसन्तानीयानां सम्मतमेव । यतस्तेऽपि चतुर्थ्यादिष्वेव सांवत्सरिकादि कुर्वन्ति । यतस्तेऽपि स्वीकुर्वन्त्येव पाक्षिकादिदिनातिक्रमेऽपराधादिक्षामणायां प्रत्याख्यानावरणादीनामनन्तानुबन्ध्यादीनामापत्तिमिति । तथा च सांवत्सरिककृतौ ज्ञानायाराधनासंवलित जिनानारूपो हेतु:, अपराधक्षामणादि स्वरूपं, प्रत्याख्यानाद्युदय निवारणादि फलमिति । किञ्च - गृहिज्ञातपर्युषणा कल्पकर्षणवर्षावाससामाचारीस्थापनादिसाध्या, सांवत्सरिकं तु चैत्यमहोत्सवसकलसाधुवन्दन लोचाष्टमतपःक्षामणादिसाध्यमिति । सत्स्वपि हेतुस्वरूपफलसाधनादिगतेषु भेदेषु न भेदो गृहिज्ञातपर्युषणा सांवत्सरिकयोरिति कदाग्रहपूर्वकं ब्रुवतां वक्त्रं न वक्रीभवति तद् दुष्पमाकाखलायितात् किमपरहेतुकं भवेत् ? । अन्यच्च खरतर सन्तानीया अपि पूर्वसांवत्सरिकदिनादैपम सांवत्सरिकदिनमेक दिनेनाधिकमपि स्यात्तर्हि अनन्तानुबन्ध्यापात मूलप्रायश्चित्तावलोकनेन युगप्रधानैः श्रीकालकाचार्यैः पञ्चम्या एकदिनेनावगिपर्वरूपायामपि चतुर्थ्यामाचीर्ण सांवत्सरिकमनुमन्यमाना अपर्वरूपायां भाद्रपद शुक्ल चतुर्थ्यामेव कुर्वन्ति, न तु पर्वरूपायामपि भाद्रपद शुक्लपञ्चम्यां । ननु च यदि तेऽनन्तानुबन्ध्याद्यापातभयात् साम्प्रतमेकदिनोल्लङ्घनभयादपर्वचतुर्थ्यां सांवत्सरिकं कुर्वन्ति, तहिं अभिवर्धते वर्षे श्रावणमाद्रपदयोर्वृद्धौ सत्यां द्वितीयश्रावणे प्रथमे भाद्रपदे वा शुक्लचतुर्थ्यां सांवत्सरिकं कुर्वन्ति, द्वितीयवर्षे च भाद्रपदशुक्लचतुर्थ्यामेव कुर्वन्तः सांवत्सरिकं किं न शोचन्ति ? एकदिनाधिक्याद्भीतानां मासप्रमाणस्य महतः कालातिक्रमस्यावगणनात्, किं तत्रानन्तानुवन्ध्यापातादि तेषां बाधकरं नेति । अत्रार्थे त एव प्रष्टव्याः । ज्ञात पर्युत्रणा ॥४९॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy