SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देशः ७ ॥३४५॥ मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा वीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेद्' दत्तोपयोगो भवेत् , तथाकुर्वाणं च दृष्ट्वैतद्वदेत् , तद्यथा-अमुक! इति वा भगिनि! इति वा इत्यामन्त्र्य मैवं कृथा यद्यभिकाससि मे दातुं तत एवंस्थितमेव ददस्व, अथ पुनः स परो-गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहत्य तथाप्रकारमशनादिकं दद्यात्, स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह से भिक्खू वा २ से जं० असणं वा ४ वणस्सइकायपइट्ठियं तहप्पगारं असणं वा ४ वण. लाभे संते नो पडि० । एवं तसकाएवि ॥ (सू० ४०)॥ | स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्ये|ऽप्येपणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी-"संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥१॥" तत्र शङ्कितमाधाकर्मादिना १, बक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहितं बीजपूरकादिना ४, 'साहरिय'ति मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, 'दायग'त्ति दाता बालवृद्धाद्ययोग्यः ६, उमिश्रं-सचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयो, न सम्यग्भावोपेतं ८, लिप्तं वसादिना ९, 'छड्डियंति परिशाटव १० दित्येषणादोषाः॥ साम्प्रतं पानकाधिकारमुद्दिश्याह १ शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायकदोषदुष्टं उन्मिश्रम् । अपरिणतं लिप्तं छर्दितं एषणादोषा दश भवन्ति ॥ १॥ ॥३४५॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy