SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ स भिक्षर्गच्छनिर्गतो जिनकल्पिकादिर्ग्रहपतिकुल प्रवेष्टुकामः 'सर्व' निरवशेष 'भण्डक' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्कामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा-"दुग तिग चउक्त पंचग नव दस एकारसेव बारसहे"त्यादि । तत्र जिनकल्पिको द्विविधः-छिद्रपाणिरच्छिद्रपाणिश्च, तत्राच्छिद्रपाणेः शस्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वक्त्राणार्थ क्षौमपटपरिग्रहात्रिविधम् , अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाच्चतुर्द्धा, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहासञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो-दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रनिर्योगश्च-"पत्तं १ पत्ताबंधो २ पायढवणं ३ च पायकेसरिया ४। पडलाइ ५ रयत्ताणं ६ च गोच्छओ ७ पायनिज्जोगो ॥१॥” अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षु मादेर्बहिर्विहारभूमि स्वाध्यायभूमि वा तथा 'विचारभूमि' विष्ठोत्सर्गभूमिं सर्वमुपकरणमादाय ||प्रविशेन्निष्कामेद्वा, एतद्वितीय, एवं प्रामान्तरेऽपि तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह से भिक्खू० अह पुण एवं जाणिज्जा–तिव्वदेसियं वासं वासेमाणं पेहाए तिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नचा नो सव्वं भंडग १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजनाणं च गोच्छकः पात्रनियोगः ॥१॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy