SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३३१ ॥ स भिक्षुरन्यतरां पुरःसङ्घडिं पश्चात्सङ्घडिं वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं | संप्रधावत्युत्सुकभूतेनात्मना - यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्घडिरस्ति, 'नो संचाए - इ'त्ति न शक्नोति 'तत्र' सङ्घडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्घडिरहितेभ्यः 'सामुयाणियं'ति भैक्षं, किम्भूतम् -' एषणीयम्' आधाकर्मादिदोषरहितं 'वेसियं'ति केवलरजोहरणादिवेषाल्लब्धमुत्सादनादिदोषरहितम्, एवंभूतं पिण्डपातम् - आहारं परिगृह्याभ्यवहर्त्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाव्येत, कथं ? - यद्यपी - तरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्घडिमेव गच्छेत्, एवं च मातृस्थानं तस्य संभाव्येत, तस्मान्नैवं कुर्याद् - ऐहिकामुष्मिकापायभयात् सङ्घ डिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्यात्तथाऽऽह'सः' भिक्षुः 'तत्र' सङ्घडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिकं' समुदानं - भिक्षा तत्र भवं सामुदानिकम् 'एषणीयं' प्रांसुकं 'वैषिकं' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति ॥ पुनरपि सङ्घडिविशेषमधिकृत्याह * सेभिक्खू वा २ से जं पुण जाणिज्जा गामं वा जाव रायहाणि वा इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गामं वा जाव रायहाणि वा संखार्ड संखडिपडियाए नो अभिसंधारिज्जा गमणाए । केवली बूया आयाणमेयं आइन्नाऽवमा णं संखडिं अणुपविस्समाणस्स — पाएण वा पाए अकंतपुव्वे भवइ, हत्थेण वा हत्ये संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, कारण वा काए संखोभिवपुब्वे श्रुतस्कं० २ चूलिका १ पिण्डैष ०१ उद्देशः ३ ॥ ३३१ ॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy