________________
रनुपलब्धैर्वा 'न सङ्गं कुर्यात्' न रागं गच्छेत् नं गाय प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः सामग्र्यं, शेषं पूर्ववत्, इह व सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति॥चतुर्थसप्तककाध्ययनमादित एकादशं समाप्तम् ॥२-२-४-११॥
अथ पञ्चमं रूपससैककमध्ययनम् । चतुर्थसप्तैककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ नियुक्तिकृत् गाथाऽर्द्धमाह
दव्वं संठाणाई भावो वन्न कसिणं सभावो य। [दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य] ॥३२४॥ तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशा भङ्गाललाटनयनारोपणनिष्ठुरवागादिकम्, एतद्विपरीतं प्रसनस्येति, उक्तश्च-"रुहस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ ॥१॥" सूत्रानुगमे सूत्रं, तच्चेदम्
१ रुष्टस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति ॥१॥