________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४०२ ॥
स्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाद्विधेति ॥ भावावग्रहप्रतिपादनार्थमाहमइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अत्थवंजणे उग्गहो दसहा ।। ३१८ ।। भावावग्रहो द्वेषा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च तत्र मत्यवग्रहो द्विधा - अर्थावग्रहो व्यञ्जनावग्रहश्च तत्रार्थावग्रह इन्द्रियनोइन्द्रियभेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशघेति ॥ ग्रहणावग्रहार्थमाह
गहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो । कह पाडिहारियाऽपाडिहारिए होइ ? जहयवं ३१९ ॥
अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः | पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्समणे भविस्सामि अणगारे अकिंचणे अपुत्ते 'अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते! अदिनादाणं पञ्चवक्खामि, से अणुपविसित्ता गामं वा जाव रायहाणि वा नैव सयं अदिन्नं गिव्हिज्जा नेवऽन्नेहिं अदिन्नं गिण्हाविज्जा अदिनं गिण्हंतेवि अन्ने न समणुजाणिज्जा, जेहिवि सद्धिं संपन्नइए तेसिंपि जाई छत्तगं वा जाव चम्मछेयणगं वा तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय २ अपमज्जिय २ नो उग्गिण्हिज्जा वा परिगिण्हिज्ज वा, तेसिं पुब्बामेव उग्गहं जाइज्जा अणुन्नविय पडिलेहिय पमज्जिय तमो सं० उग्निव्हिल वा ५० ।। ( सू० १५५ )
श्रुतस्कं०२ चूलिका १
अवग्र० ७
उद्देशः १
॥ ४०२ ॥