________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥४०॥
श्रुतस्कं०२ |चूलिका १ पात्रैष०६ उद्देशः २
पात्रैषणया पात्रमन्विषन्तं साधु प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममिति॥ तथा-स नेता तं साधुमेवं ब्रूयाद् , यथा-रिक्तं पात्रं दातुं न वर्तत इति मुहूर्त्तकं तिष्ठ त्वं यावदशनादिकं कृत्वा पात्रक भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत् , निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृहीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठस्या
ध्ययनस्य प्रथमोद्देशकः परिसमाप्तः ॥२-१-६-१॥ all उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्या४ स्योद्देशकस्येदमादिसूत्रम्
से भिक्खू वा २ गाहावइकुलं पिंड० पविढे समाणे पुन्बामेव पेहाए पडिग्गहगं अवहटू पाणे पमज्जिय रयं तओ सं० गाहावई० पिंड निक्ख० ५०, केवली०, आउ०! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियावजिज्जा, अह मिक्खूणं
पु. जं पुन्वामेव पेहाए पडिग्गहं अवहट्ठ पाणे पमज्जिय रयं तओ सं० गाहावइ. निक्खमिज वा २ ॥ (सू० १५३) ___स भिक्षुर्ग्रहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतबहं, तत्र च यदि प्राणिनः पश्येत्तत-|| 8||स्तान 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थः, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्धा निष्कामेद्वा इत्येषो
ऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति. पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति !, अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह-केवली ब्रूयाद् यथा कर्मोपादानमेतत्, यथा
AARAAR
॥४००॥