SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ यवं, से हंता अहमवि मुहुत्तगं पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिज्जा ।। (सू० १५०) स कश्चित्साधुरपरं साधुं मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र चासावेकाहं यावत्पश्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतं, तच्च तथाविधं वस्त्रं तस्य समर्पयतोऽपि वस्त्रस्वामी न गृह्णीयात् , नापि गृहीत्वाऽन्यस्मै दद्यात्, नाप्युच्छिन्नं दद्याद् , यथा गृहाणेदं, त्वं पुनः कतिभिरहोभिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रेण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत् , तद्यथा-आयुष्मन् ! श्रमण! 'अभिकाङ्कसि' इच्छस्येवंभूतं वस्त्र धारयितुं परिभोक्तुं चेति ?, यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिरं-दृढं सत् 'परिच्छिन्द्य परिच्छिन्द्य' खण्डशः २ कृत्वा 'परिष्ठापयेत्' त्यजेत् , तथाप्रकारं वस्त्रं 'ससंधिय'न्ति उप-६ हतं स्वतो वस्त्रस्वामी 'नास्वादयेत्' न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत् , अन्यस्मै वैकाकिनो गन्तुः सम येदिति । एवं बहुवचनेनापि नेयमिति ॥ किञ्च-'सः' भिक्षुः एकः' कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहारिकं वस्त्रं मुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत् , न चैतत्कुर्यादिति ॥ तथा से मि० नो वण्णमंताई वत्थाई विवण्णाई करिजा विवण्णाई न वण्णमंताई करिजा, अन्नं वा वत्थं लमिस्सामित्तिक१ नो अन्नमन्नस्स दिजा, नो पामिचं कुजा, नो वत्थेण वत्थपरिणामं कुजा, नो परं उवसंकमित्तु एवं वदेजा-आउसो०!
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy