SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणाः-"पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणेहिं विसुद्धा एसा आहागडा वसही ॥१॥ वंसगकडणोकंपण छायण लेवण दुवारभूमीओ। परिकम्मविप्पमुक्का एसा मूलुत्तरगुणेसु oilm२॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्महावि अविसोहिकोडीगया वसही ॥ ३॥" अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्त्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादानतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चित्पतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तद्हे निषिद्धाचरणमग्रहे तनद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-"मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेवेज सव्वकालं विवजए हुति दोसा उ ॥१॥" मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्को दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारताः-निरोधासहिष्णुत्वाच्चडमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारकः-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या १ पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्यः । मूलगुणविशुद्धा एषा यथाकृता वसतिः ॥१ वंशककटनोत्कम्पनच्छादनलेपनं द्वारभूमेः । परिकर्मविप्रमुका एषा मूलोत्तरगुणैः ॥ २॥ धवलिता धूपिता वासिता उद्योतिता कृतबलिका च व्यका च । सिक्ता संमृष्टाऽपि च विशोधिकोटीगता वसतिः ॥३॥ २ मूलोत्तरगुणशुदा स्त्रीपशुपण्डकविवर्जितां वसतिम् । सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः ॥१॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy