________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ ३६६ ॥
सुणिसंतो भवइ'त्ति न सुष्ठु निशान्तः - श्रुतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं भवतीत्यर्थः, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं तच्छ्रद्दधानैः प्रतीयमानै रोचयद्भिरित्येकार्था एते किञ्चिदाद्वा भेदः, तदेवंभूतैः 'अगारिभिः' गृहस्थैर्वहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामादौ यानशालादीनि स्वार्थ कुर्वद्भिः श्रमणाद्यवकाशार्थं 'चेइयाई' महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति, तद्यथा - 'आदेशनानि' लोहकारादिशालाः 'आयतनानि' देवकुलपार्श्वापवरकाः 'देवकुलानि' प्रतीतानि 'सभा' चातुर्वैद्यादिशालाः 'प्रपाः' उदकदानस्थानानि पण्यगृहाणि वा' पण्यापणाः 'पण्यशाला ः ' घङ्खशाला ः 'यानगृहाणि रथादीनि यत्र यानानि तिष्ठन्ति 'यानशाला ः ' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्धयल्क जाङ्गारकाष्ठ कर्म[काष्ठ ]गृहाणि द्रष्टव्यानि, 'श्मशान गृहं' प्रतीतं (शून्यागारं - विविक्तगृहं ) शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते गिरिगृहं पर्वतोपरिगृहं कन्दरं - गिरिगुहा संस्कृता शैलोपस्थापनं-पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्व पश्चाद् 'भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् ३ ॥
इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणिमए समुद्दिस्स तत्थ तत्थ अगारिहिं अगाराई चेइयाइं भवंति, तं० —आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प० आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो ! अणभिकंतकिरिया यावि भवइ | ( सू० ८१ )
श्रुतस्कं० २ चूलिका १ शय्यैष० २
| उद्देशः २
॥ ३६६ ॥