________________
श्रीआचाराजवृत्तिः (शी०)
अध्ययनं१ उद्देशका
॥२७॥
SARASWAROO
सर्वस्मिन् 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभाखण्डे ये पूर्व प्रतिपादिताः 'कर्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्यो- ऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः तथाहि-आत्मपरोभयहिकामुष्मिकातीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ॥१२॥ एवं सामान्वेन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदश्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह
___ जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे | (सू० १३) तिबेमि ॥ प्रमथोद्देशकः १॥ १०१,२००७. १ ।।
भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रिया-| विशेषाः कमणो वा-ज्ञानावरणीयाधष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः -परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनि - परिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाकायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याम्यां विना मोक्षो भवति, यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति । इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा