SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२६॥ अध्ययनं १ उद्देशकः१ श्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्त्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते, तत्र 'परिवन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनाद्वली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थ वा चेष्टमानः कर्माचि नोति तथा पूजनं पूजा-द्रविणवस्त्रान्नपानसत्कारप्रणामसेवाविशेषरूपं तदर्थं च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं द सम्भावयति, तथाहि-वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच्च सर्वा प्रजा विभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम् , अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थं चतुर्थी विधेया, परिवन्दनमाननपूजनाय जीवितस्य कर्माश्रयेषु प्रवर्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थ्य चतुर्थी, एतदर्थं च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थ क्रौञ्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्-“वारिदस्तृप्तिमामोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कर्मभयप्रदः ॥११॥" अत्र चैकमेव सुभाषितम्-'अभयप्रदान'मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिंसादी प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवतते , यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थ वधबन्धादौ प्रवर्तते, यदिवा मरणनिवृत्त्यर्थमात्मनो १ कार्तिकेयः ॥२६॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy