SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२५॥ अध्ययनं १ उद्देशकः१ जगति सन्मार्गः॥११॥" यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति वि- रूपरूपांश्च सर्शान् प्रतिसंवेदयति, सः 'अविज्ञातको' अविज्ञातम्-अविदितं कर्म-क्रिया व्यापारो मनोवाकायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमोत्मकत्वेन बन्धहेतु: सावद्यो येन सोऽयमविज्ञातकर्मा, अविज्ञातकमत्वेन च तत्र तत्र कर्मणि जीवोपमोदिके प्रवर्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति ॥ ९॥ यद्येवं ततः किमित्यत आह तत्थ खल भगवता परिण्णा पवेइआ (सू० १०) | 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाकायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वा|मिनाने कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सावद्यव्यापारेण बन्धो भवतीत्येवं | भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञयां च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥ अमुमेवार्थ नियुक्तिकृदाह| तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए॥६७॥ . 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह-'अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योश्चोपसनहान्नवापि भेदा आत्मपरिणामत्वेन यो ॥ २५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy