________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥२४॥
अध्ययन उद्देशकः१
मणुएसु ॥२॥ तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्यते-'सीयादी जोणीओ चउरासीती य सय- सहस्साई। असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥१॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । तिस्थगरनामगोत्तं सव्वसुहं होइ नायब्वं ॥२॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुंति असुभाओ। देवेसु किविसादी सेसाओ हुंति उ सुभाओ॥ ३ ॥ पंचिंदियतिरिएK हयगयरयणे हवंति उ सुभाओ । सेसाओ अ सुभाओ सुभवण्णेगिदियादीया ॥४॥ देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं । अणगारभाविताविय सेसा उ अणंतसो पत्ता ॥ ५ ॥" एताश्चानेकरूपा योनीदिंगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् 'संधेइ'त्ति सन्धयति-सन्धि करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावईत्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तद्दर्शयति-विरूपं-बीभत्सममनोज्ञं रूपं-स्वरूपं येषां सर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तद्व्यपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखो
1
१ शीताद्या योनयश्चतुरशीतिष शतसहस्राणि । अशुभाः शुभाष तत्र शुमा इमा जानीहि ॥ १ ॥ असंख्यायुर्मनुष्याः संख्यायुरुकाणां राजेश्वरायाः । तीर्थकरनामगोत्रं सर्वशुभं भवति ज्ञातव्यम् ॥ २॥ तत्रापि च जातिसम्पन्नतायाः शेषा भवन्त्यशभाः । देवेषु किल्बिषायाः शेषा भवन्ति च शुभाः ॥ ३॥ पञ्चेन्द्रियतियक्षु हयगजरत्नयोर्भवति शुभा। शेषाश्च शुभाः शुभवर्णैकेन्द्रियाद्याः ॥४॥ देवेन्दचक्रवर्तित्वे मुक्त्वा तीर्थकरभावं च भावितानमारतामपि च शेषास्त्वनन्तशः प्राप्ताः॥५॥
२ ताः प्र.