SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२०॥ मूर्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभे- अध्ययनं १ दादष्टधा, तत्रोपयोगात्मना बाहुल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति च ममात्मा, उद्देशकः१ योऽमुष्या दिशोऽनुदिशश्च सकाशाद् 'अनुसञ्चरति' गतिप्रायोग्यकर्मोपादानादनु-पश्चात् सञ्चरत्यनुसञ्चरति, पाठान्तरं वा 'अणुसंसरईत्ति दिग्विदिशां गमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति अनुसंस्मरतीति वा सः 'अहं' मित्यात्मोल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुकिकृद्दर्शयितुमना गाथात्रितयमाह जाणइ सयं मईए अन्नेसिं वावि अन्तिए सोचा । जाणगजणपण्णविओ जीवं तह जीवकाए वा ॥६४॥ इस्थ य सह संमइअत्ति जं एअं तत्थ जाणणा होई । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥६५॥ परवइ वागरणं पुण जिणवागरणं जिणा परं नत्थि । अण्णसिं सोचंतिय जिणेहिं सब्वो परो अण्णो ॥६६॥ कश्चिदनादिसंसृतौ पर्यटन्नवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकंटनार्थ पश्चादुपात्तमप्यमन्येषामित्येतत्पदं तावदाचष्टे-'अन्येषां वा' अतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा 'जाणगजणप ण्णविओ' इत्यनेन परव्याकरणमुपातं, तेनायमों-ज्ञापकः-तीर्थकृत्तत्प्रज्ञापितश्च जानाति, यज्जानाति तत् स्वत एव ४ दर्शयति-सामान्यतो 'जीव'मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा 'जीवकायांश्च' पृथ्वीकायादीन् इत्य-51 ॥२०॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy