________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं १ उद्देशकः१
॥१९॥
प्रकृतमनुम्रियते-तत्रेह 'एवमेगेसिं णो णायं भवई' इत्यनेन केषाश्चिदेव संज्ञानिषेधात्केषाश्चित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिश्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टसंज्ञायाः कारणं सूत्रकृद्दर्शयितुमाह
से जं पुण जाणेज्जा सह संमइयाए परवागरणेणं अण्णेसिं अंतिए वा सोच्चा तंजहा-पुरत्थिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमसि, एवमेगेसिं जं णायं भवति-अत्थि मे आया उववाइए, जो इमाओ (दिसाओ) अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ अ
णुदिसाओ, सोऽहं (सू० ४) 'से जं पुण जाणेजत्ति सूत्रं यावत् सोऽहमिति 'से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्नाग्निर्दिष्टं दिग्विदिगागमनं, तथा कोडहमभूवमतीतजन्मनि देवो नारकस्तियेग्योनो मनुष्यो वा? स्त्री पुमान्नपुंसको वा', को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टो
१ अणुसंसरइ ( इति पा.)
या।