________________
अध्ययनर
उशका १
श्रीआचा
13 अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाश्चिदज्ञानावष्टब्धचेतसां राङ्गवृत्तिः
न जायत इति । तथा 'कोऽहं' नारकतिर्यग्मनुष्यादिः पूर्वजन्मन्यासं ?, को वा देवादिः 'इतो' मनुष्यादेर्जन्मनः (शी०)
P'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ॥ इह च यद्यपि
सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्मज्ञापकदिगुपात्ताऽत्र तु भावदिगित्यवगन्तव्यम् । ॥१६॥ ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिमण्यात्मनि
सिद्धे सति भवति, 'सति धम्मिणि धर्माश्चिन्त्यन्त' इति वचनात् , स च प्रत्यक्षादिप्रमाणगोचरातीतत्वादुरुपपादः, तथाहि-नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद् ,
अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन) तस्याप्रत्यक्षत्वे तत्सामान्यग्रहPणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनुमानान्तर्भावाद् अन्यत्र च बाह्येऽर्थे सम्ब
न्धाभावादप्रमाणत्वं, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्त्या,। तदेवं प्रमाणपश्चकातीतत्वात्वष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायम्-नास्त्यात्मा, प्रमाणपश्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनानुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि-प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात् , स्वसंविनिष्ठाश्च विषयव्यवस्थितयो, घटपटादीनामपि रूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच न भूतगुणश्चैतन्यमाशङ्कनीयं, तेषां सदा सविधानसम्भवादिति,