________________
श्रीआचा- राङ्गवृत्तिः (शी०) |
॥३१
॥
भगवानध्यासयति, सम्यगितः-सम्यग्भावं गतः समितिभिः समितो वेति ॥ किं च–'अर्थ' आनन्तर्ये दुःखेन चर्यतेऽ- उपधा०९ स्मिन्निति दुश्चरः स चासौ लाढश्च-जनपदविशेषो दुश्चरलाढस्तं चीर्णवान्-विहृतवान् , स च द्विरूपो-वज्रभूमिः शुभ्रभू
उद्देशका मिश्च, तं द्विरूपमपि विहृतवान् , तत्र च प्रान्तां 'शय्यां' वसति शून्यगृहादिकामनेकोपद्रवोपद्रुता सेवितवान् , तथा प्रान्तानि चासनानि-पांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति ॥ किं च-लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपि लाढेषु 'तस्य' भगवतो बहव उपसर्गाः प्रायशः प्रतिकूला आक्रोशश्वभक्षणादय आसन् , तानेव दर्शयति-जनपदे भवा जानपदा-अनार्याऽऽचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अधशब्दोऽपिशब्दार्थे, स चैवं द्रष्टव्यः, भक्तमपि तत्र 'रूक्षदेश्य' रूक्षकल्पमन्तप्रान्तमितियावत्, ते |चानार्यतया प्रकृतिकोधनाः कर्पासाद्यभावत्वाच्च तृणप्रावरणाः सन्तो भगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति ॥ किं च-'अल्पः' स्तोकः स जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो 'निवारयति' निषेधयति, अपि तु दण्डप्रहारादिभिर्भगवन्तं हत्वा तोरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानो दशन्तु-भक्षयन्तु ?, तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं || स्थितवानिति ॥ किं च
॥३१ ॥ एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी। लटुिं गहाय नालियं समणा तत्थ य