________________
एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वइंसु वा पब्वयंति वा पव्वइस्सन्ति व”त्ति, अपि च-गरीयस्त्वात्सचेलस्य, धर्मास्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥१॥"इत्यादि ॥ तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'काय' शरीरं 'विजहः' काये प्रविचारं चक्रुः, तथा मांसशोणितार्थितयाऽऽरुह्य 'तत्र' काये 'ण'मिति वाक्यालङ्कारे, 'हिंसिंसु' इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः ॥ कियन्मानं कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दर्शयितुमाह-तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिक मासं 'जं ण रिकासि'त्ति यन्न त्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊर्ध्वं तद्वस्त्रपरित्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोडभूदिति, तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति॥ किं च
अद पोरिसिं तिरियं भित्तिं चक्खमासज्ज अन्तसो झायइ । अह चक्खुभीया संहिया ते हन्ता हन्ता बहवे कंदिसु ॥५॥ सयणेहिं वितिमिस्सेहिं इथिओ तत्थ से परिन्नाय । सागारियं न सेवेइ य, से सयं पवेसिया झाइ ॥ ६ ॥ जे के इमे अगारत्था मीसीभावं पहाय से झाई । पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू