________________
श्रीआचाराजवृत्तिः (शी०)
॥२९५॥
प्रतिदिनदानाद्वार्थास्तैस्तथाभूतैर्विभवैः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थ धनं मृग्यते तदेव शरीरमशाश्व- विमो०८ तमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा-यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा
M उद्देशका कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात्, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेष 'नूमति कर्म मायां वा तत् तां वा 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ॥ २४ ॥ किं च
सव्वटेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं नच्चा, विमोहन्नयरं हियं
॥ २५॥ तिबेमि ॥ विमोक्षाध्ययनमष्टमं समाप्तम् । उद्देशः॥८-८॥ सर्वे च तेऽर्थाश्च सर्वार्थाः-पश्चप्रकाराः कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमूञ्छितः-अनध्युपपन्नः आयुःकालस्य यावन्मानं कालमायुः संतिष्ठते असौ आयुःकालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसायः स्वायुःकालान्तगः स्यादिति । तदेवं पादपोपगमनविधिं परिसमापय्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतां पश्चार्द्धन दर्शयति
॥२९५॥ तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं तत्रयाणामपि परम-प्रधानमस्तीति 'ज्ञात्वा' अवधायें 'विमोहान्यतरं