SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ स्थाद. अनिष्टं चैतत, किं च-अस्तेर्व्यापकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात, किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिक्ष्यतीति?, उतास्तित्वादन्यो लोक इत्येवं च प्रतिज्ञाहानिः स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि-नास्ति लोक इति ब्रुवन् वाच्यःकिं भवानस्त्युत नेति?, यद्यस्ति किं लोकान्तर्वती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीपि?, अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम् , इत्यनया दिशैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति, 'एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-नियुक्तिका, एवं ध्रुवाध्रुवादयोऽपि वादा नियुक्तिका एवेति, अस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम् , अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयानास्तीति, उक्तं च-"सदेव सर्वे को नेच्छेत् , स्वरूपादिचतुष्टयात्। असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१॥” इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाधुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति । साम्प्रतमुपसंहरति एवं' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति ॥ किं स्वमनीषिकया भवतेदमभिधीयते?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy