________________
CAUGASAKAATHAANAASASANAY
रएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्थवि जा
णह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ (सू० १९९) 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो| विषयःनो सुष्ठ निशान्तः-परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह-'ते' अनधी3 ताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसासरिणामिताः 'इह' मनुष्य
लोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणोदेशिकभोजनादिभिर्धर्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो प्रतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसायाः 'आददति' गृहन्तीति, किं च-तत्र प्रथमतृतीयव्रते अ-12 ल्पवक्तव्यत्वात् पूर्व प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, 'अथवेति' पूर्वस्मात् पक्षान्तरोपक्षेपका, तद्यथा अदत्तं गृहन्त्यथवा वाचो विविधं-नानाप्रकारा युञ्जन्ति, 'तद्यथे'त्युपक्षेपार्थः, अस्ति 'लोक' स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वत्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डा-15 म्युदकमध्ये प्लवमानानि संतिष्ठन्ते, तथा सन्ति जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुः नास्ति लोको मायेन्द्रजालस्वप्नकल्पमेवैतत्सर्वं, तथा ह्यविचारितरमणी