________________
SEARSANSAR
संयमानुष्ठानरूपेण उत्-प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितारमा, तथा स्निह्यतीति निहो न स्निहोऽस्निहः-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितो-16) ऽपीति, तथा चलः अनियतविहारित्वात् , तथा संयमाद्वहिर्निर्गता लेश्या-अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने ब्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, स |च किमिति संयमानुष्ठाने परिव्रजेदित्याह-संख्याय' अवधायें 'पेशलं' शोभनं 'धर्म' अविपरीतार्थ दर्शनं-दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान्, स च कषायोपशमात् क्षयाद्वा, परिः-समन्तान्निर्वृतः-शीतीभूतो। यस्त्वसख्यातवान् पेशलं धर्म मिथ्यादृष्टिरसौ न निर्वातीति दर्शयितुमाह-इतिहेतौ यस्माद्विपरीतदर्शनो मिथ्यादृष्टिः सङ्गवान्न निर्वाति तस्मात् 'सङ्गं मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिता अवबद्धा विषण्णा ग्रन्थसङ्गे नि|| मग्नाः कामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह-यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्-संयमान्निःसङ्गात्मकात् 'नो परिवित्रसेत्' न संयमानुष्ठानाद्विभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङ्गिन इति । कस्य पुनः संयमान्न परि|| वित्रसनं सम्भाव्यत इत्याह-यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः-आरम्भा अनन्तरोक्का अविगानतः सर्वजनाचरितत्वात् प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः 'सर्वतः' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः?-ये
RANSACAAAAAAS