________________
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ २३६ ॥
च्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह— तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं - संति पाणा वासगा रसगा उदए उदचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं ( सू० १७७ ) 'तं' कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं तद्यथा - नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुल कोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेय विषयं न वागवतरति तथाऽपि कर्म्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरेव किञ्चिदभिधीयते" श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयंदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कङ्कैर्घोरैः समन्तविभक्षणम् ॥ १॥ तीक्ष्णैरसिभिर्दीतैः कुन्तैर्विषमैः परश्वधैश्वकैः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्डीभिः ॥ २ ॥ सम्भिन्नतालुंशिरस छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ ३ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्म्मपटलान्धाः ॥ ४ ॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छ ) भिः परिवृताः संभक्षणव्यापृतैः । पाठ्यन्ते
धुता० ६ उद्देशकः१
॥ २३६ ॥