________________
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ २३१ ॥
द्यते यया सोपमा-तुल्यता मा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषां कुत एतदिति चेदाह - तेषां मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम् - अवस्थाविशेषो यस्य सोऽपदः, तस्य पद्यते गम्यते येनार्थस्तत्पदम् - अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात्, तथा हि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह यदिवा | दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह
सेन सद्दे न रूवे न गंधे न रसे न फासे, इच्चेव त्तिवेमि (सू० १७१) ॥ षष्ठ उद्देशकः । लोकसाराध्ययनं समाप्तं ॥ ५-६ ॥
'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्येतेति भावार्थः । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पञ्चममध्ययनमिति ॥ ग्रन्थाप्र० १११५ ॥
लोक० ५
उद्देशकः ६
॥ २३१ ॥