________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक. ५ उद्देशक.५
॥२२२॥
KASARAKAKASARAKAR
तिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशम समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितं, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह॥
तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं (सू० १६२) यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धदृष्टान्तसम्यगहेत्वभावाचे ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम्-अवितथं, 'निःशङ्क'मिति अहंदुक्तेष्वत्यन्तसूक्ष्मवतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्क, यत्किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितं, कैः?-'जिनैः'तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति । किं यतेरपि विचिकित्सा स्यायेनेदमभिधीयते ?, संसारान्तर्वतिनो मोहोदयात्तत्किं? यन्न स्यादिति, तथा चागमः-"अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति!, हंता अस्थि, कहन्नं समणावि णिग्गंथा कंखामोहणिज्ज कम्मं वेयंति', गोअमा!
अस्ति भदन्त ! धमणा अपि निर्ग्रन्थाः काहामोहनीयं कर्म वेदयन्ति !, हन्त अस्ति, कथं श्रमणा भपि निर्मन्याः काडामोहनीयं कर्म वेदयन्ति, गौतम! तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेषु शहिताः काडिता विचिकित्सासमापना भेदसमापत्राः कानुष्यसमापनाः, एवं बलु गौतम! श्रमणा अपि नियन्याः काहामोहनीयं कर्म वेदयन्ति, तत्रालम्बनं 'तदेव सत्यं निश्श यजिनैः प्रवेदितम् । अथ नूनं भदन्त! एवं मनो धारयन् माज्ञाया आराधको भवति!, हन्त गौतम! एवं मनो धारयन् आज्ञाया आराधको भवति.
॥२२२॥