SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) BLUEIX ॥२१८॥ सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते । स च स्या लोक०५ धनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह-'दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयोत्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेप स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसगर्गादिकं कुर्यात्?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद् ? अन्यो वा पुत्रकलत्रादिको |जनो गम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति।। यदिवैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जन हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह-मुनिना' श्रीवर्द्धमानस्वामिनोसन्नज्ञानेनैव 'एतत्' पूर्वोक्तं, यथा स्त्रियो भावंबन्धनरूपाः, 'प्रवेदितं' प्रकर्षेणादौ वा व्याख्यातमिति । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-उत्-प्रावल्येन मोहोदयाद् बाध्यमानः-पीड्यमानः उदाध्यमानः, कैः१-यामधम्मैः ग्रामाः-इन्द्रियग्रामास्तेषां धर्माः-स्वभावा यथास्वं विषयेषु प्रवर्त्तनं तैरुद्वाध्यमानो गच्छान्तर्गतः सन् गुदिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तदोजी स्यात् , यदिवा निर्गतं | ॥२१८॥ ||बलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति |
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy