________________
श्रीआचा- रावृत्तिः (शी०)
लोक. ५ उद्देशका४
KASAKARAA%ASNA
यति-एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतश्चान्तःकोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य कचिपाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-इह-अस्मिन् लोके-जन्मनि वेदनम्अनुभवनमिहलोकवेदनं तेन वेद्यम्-अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुटीकृतकर्मणि तु यद्विधेयं तदाह-यत्तु पुनः काकुट्टया कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेकः-प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति, तद्विवेकं वा-अभावाख्यमुपैति-तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह-'एव'मिति वक्ष्यमाणेन प्रकारेण 'से' तस्य कर्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वेति ॥ किम्भूतः पुनरप्रमादवान् भवतीत्याह
' से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दुटुं विप्पडिवेएन अ-.
॥२१७॥