________________
येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम् , अहं च भवदुपदेशाद् अपि सिंहेनापि सह युद्ध्ये, न मे कर्मक्षयार्थ प्रवृत्तस्य किश्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह-अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन?, अन्तरारिषड्र्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसाराणवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्प्रापेति दर्शयितुमाह
जुद्धारिहं खलु दुल्लहं, जहित्थ कुसलेहिं परिन्नाविवेगे भासिए, चुए हु वाले गब्भाइसु रजइ, अस्सि चेयं पवुच्चइ, रूवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिणाय सव्वसो से न हिंसइ, संजमई नो पगब्भइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु (सू० १५४) एतदौदारिकं शरीरं भावयुद्धार्ह, खलुरवधारणे, स च भिन्नक्रमो, दुर्लभमेव-दुष्प्रापमेव, उक्तं च-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥” इत्यादि, पाठान्तरं