SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ तान् पर्शान-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह-'से पुव' मित्यादि, स| स्पृष्टः पीडितः आशुकारिभिरातरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवर्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातका न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकांचनावस्थायातं कम्मोवश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तं च "स्वकृतपरिणतानां दुर्नयानां विपाका, १-३-३-४ कर्मबन्धक्षतुर्विधः, तद्यथा-प्रकृतिबन्धः १ स्थितिबन्धः २ अनुभागबन्धः ३ प्रदेशबन्धः-४, तत्र प्रकृतिबन्धोऽष्टविधः, कानावरणीयाचन्तरा| यान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु ज्ञानावरणीये पञ्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नानः द्विचत्वारिंशत् सप्त| षष्टिा त्रिनवतिर्वा ञ्युत्तरशतं वा, गोत्रे द्वौ, अन्तराये पञ्च, इति मूलोत्तरप्रकृतिबन्धः । स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशत्कोटीकोव्य उत्कृष्टा स्थितिः, मोहनीये सप्ततिकोटाकोव्यः, नामगोत्रयोविंशतिः, आयुषि ३३ सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मापुद्गलेघु-"जो रसो अणुभागो बुच्चइ तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स* बन्धो अणुभागबंधो" अणुभागबन्धो समत्तो । प्रदेशाः-कर्मवर्गणास्कन्धाः तेषां बन्धः जीवप्रदेशैः समं वययःपिण्डवत्क्षीरनीरसम्बन्धवद्वा, उक्तं च-“जीवकर्मप्रदेशानां, यः सम्बन्धः परस्परम् । कृशानुलोहबद्धेतोः, तं बन्धं जगदुर्बुधाः ॥१॥" स्पृष्टबद्धनिधत्तनिकाचितकारणभेदात् स पुनवतुर्विधः, तथाहिसमूहगतायःसूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबदसूचिसम्बन्धवद्वद्धकर्मबन्धः, वर्षान्तरितदवरकबद्धसूचिकासम्बन्धवनिधत्तकर्मबन्धः, अनिमातगचिकासमवायमेलकवनिकाचितकर्मबन्धः, 44CCAERONACC0
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy