________________
अथ लोकसाराख्यं पञ्चममध्ययनम् । PI उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गत
|च ज्ञानं, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत ति इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा,
तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराहहिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि । विरओ मुणित्ति बिइए अविरयवाई परिग्गहिओ ॥२३६॥ तइए एसो अपरिग्गहो य निम्विन्नकामभोगो य । अव्वत्तस्सेगचरस्स पञ्चवाया चउत्थंमि ॥ २३७॥ हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए । उम्मग्गवजणा छट्ठगंमि तह रागदोसे य ॥ २३८॥
हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य | समाहारद्वन्द्वः, प्राकृतत्वात्पुंलिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थ सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके १, द्वितीये तु हिंसादिपापस्थानकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येत