SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सम्य.४ श्रीआचाराजवृत्तिः (शी०) उद्देशकः ॥१९४॥ भोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान् भावयतो 'मध्ये' वर्तमानकाले कुतो भोगेच्छा स्यात्, मोहनीयोपशमान्नैव स्यादित्यर्थः। यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह-'से हु' इत्यादि, जा'हु' यस्मादर्थे यस्मान्निवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान्-प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्तृ तद्विद्यते यस्थासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो, यत एवम्भूतोऽत एवाह-'आरंभोवरए' सावद्यानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः। एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह–'सम्म'मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृहीत यूयमिति । किमित्यारम्भोपरमणं सम्यगिति चेदाह-'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशा: दिभिः 'घोरं' प्राणसंशयरूपं परितापं शारीरमानसं 'दारुणं' असह्यमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात् , किं कृत्वेत्याह-'पलिच्छिन्दि'इत्यादि, 'परिच्छिन्द्य' अपनीय, किं तत्-'स्रोतः' पापोपादानं, तच्च बाह्यं धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किं च-णिकम्मदंसी'त्यादि, निष्क्रान्तः कर्मणो निष्का -मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्मदी, 'इहे'ति संसारे मत्र्येषु मध्ये य एव निष्कर्मदशी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदी वा भवेत् इत्यत आह–'कम्माणं इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त इति कआणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्म्मदर्शी वेदविद्वा कर्मणां फलं दृष्ट्वा, तेषां च फलं-ज्ञाना ॥१९४॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy