________________
श्रीआचारावृत्तिः (शी०) ॥१८५॥
सम्य०४ उद्देशकार
हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परूवमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयव्वा २ न परिचित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया! किं भे सायं दुक्खं असायं? समिया पडिवण्णे यावि एवं बया-सव्वेर्सि पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं
महब्भयं दुक्खं तिबेमि (सू० १३३ ) ॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४-२॥ 'आवन्तीति यावन्तः 'केआवन्तीति केचन 'लोके' मनुष्यलोके 'श्रमणाः' पाषण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथग् विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति-यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि-भागवता ब्रुवते-“पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यास्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेषं सामान्यं तत्त्व"मिति, वैशेषिकास्तु भाषन्ते-"द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परसरनिरपेक्षं सामान्यविशेषात्मकं तत्त्व"मिति
COSMOSO6432KOSSAAN
टा॥१८५॥