________________
श्रीआचाराजवृत्तिः (शी०)
॥१८४॥
कूरेहिं चिटुं परिचिट्ठइ, अचिटुं कूरेहिं कम्मेहिं नो चिटुं परिचिटुइ, एगे वयंति अदु- सम्य०४ वावि नाणी नाणी वयंति अदुवावि एगे (सू० १३२)
उद्देशका 'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके 'एकेषां' मिथ्यात्वाविरतिप्रमादकषायवतां 'तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-'अहोववाइए' इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीर्थिका अप्यौदेशिकादि निर्दोषमाचक्षाणा 'अधऔपपातिकान्' नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहि-लोका| यतिका ब्रुवते-"पिव खाद च चारुलोचने !, यदतीतं वरगात्रि! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्र६ मिदं कलेवरम् ॥१॥" वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि ते भाषन्ते–'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवास-8|
वानप्रस्थयज्ञदानमो(प्रो)क्षणदिनक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति !, न सर्व इति दर्शयति–'चिटं' इत्यादि, चिट्ठ-भृशमत्यर्थ 'क्रूरैः' वधबन्धादिभिः 'क-15
र्मभिः' क्रियाभिः 'चिह'मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्ग| नादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचिते