________________
श्रीआचाराङ्गवृत्तिः (शी.)
सम्य०४ उद्देशका
॥१७८॥
वा उवट्ठिएसु वा अणुवहिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु वा अणोवहिएसु वा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्सि
चेयं पवुच्चइ (सू०१२६) गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति, येऽतीता:-अतिक्रान्ता ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं, तच्चैवं-पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्त्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पश्चस्वपि भरतेषु पञ्चैवमैरावतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिताः षष्टयुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं-पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते
भाव समयक्षेत्रसम्भविनः सप्तत्यमरावतवपीति, तत्र द्वात्रिंशवध महाविदेहेषु महाविदो
॥१७८॥