________________
नहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्-सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुष्पं व निष्फलं तस्स सामण्णं ॥ १ ॥ अजिअं चरित्तं देसूणाएवि पुन्वकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ २ ॥"। स्वमनीषिकापरिहारार्थ गौतमस्वाम्याह-'एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शन' सर्व निरावरणत्वात्पश्यति-उपलभत इति पश्यः स एव पश्यकः-तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेप्ति दर्शनम्-उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह-'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रो-| परतः, भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरण
सकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना ६ तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह-पलियंतकरस्स'
पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् र्दशनमिति सण्टङ्कः। यथा च तीर्थकृत् संयमापका|रिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-आयाण' मित्यादि, आदीयते-गृह्यते
१ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम् ॥ १॥ यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोव्या । तदपि कषायितमात्रो हारयति नरो मुहूर्तेन ॥ २ ॥