________________
अप्पा मित्तं अमित्तं च ॥१॥" तथा-"अप्येक मरणं कुर्यात् , संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् ॥१॥" यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याह
जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्म
मायाय सेयं समणुपस्सइ (सू० ११८) 'य' पुरुषं 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारम्-अपनेतारं तं जानीयाद् 'दूरालयिक'मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः-मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह-जं जाणेज्जे'त्यादि, यं जानीयारालयिक तं जानीयादुच्चालयितारमिति, एतदुक्तं भवति-यो हि कर्मणां तदास्रवद्वाराणां चोच्चालयिता-अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते-'पुरिसा' इत्यादि, हे जीव! आत्मानमेवाभिनिगृह्य धर्मध्यानाद्वहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम्' अनेन प्रकारेण दुःखात्सकाशादात्मानं
था. सू. २९