________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥१५१॥
शीतो० ३ उद्देशकः१
दर्शयति-उष्णतरं तपो भवति, किमिति ?-यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः।। येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोतिसीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो । हुज समणो सया उजुओ य तवसंजमोवसमे ॥ २१०॥
शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियावत्, शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखं, तथा परीपहकसायवेदशोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोद्युक्तश्च, व?-तपःसंयमोपशमे इति गाथार्थः। साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयतिसीयाणि य उण्हाणि य भिक्खूणं हुंति विसहियव्वाइं । कामा न सेवियब्वा सीओसणिजस्स निजुत्ती ॥२१॥ | 'शीतानि' परीपहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीपहतपउद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि 'भिक्षणां' मुमुक्षूणां विषोढव्यानि, न. सुखदुःखयोः उत्सेकविषादौ विधेयौ, तानि | चैवं सम्यगष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह-कामा' इत्यादि गाथार्द्ध सुगर्म । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषवातविकलं सूत्रमुच्चारयितव्यं, तच्चेदम्
सुत्ता अमुणी सया मुणिणो जागरंति (सू० १०५)
॥१५१॥