________________
शीतो०३
श्रीआचाराजवृत्तिः (शी०)
उद्देशका
॥१५॥
रुदीर्णाः शारीरमेव केवलं दुःखमुत्सादयन्ति महासत्त्वस्य न मानसं ते भावतो मन्दपरिणामाः, यदिवा ये तीव्रपरिणामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः-ईपल्लक्ष्यमाणस्वरूपास्ते शीता इति । यसरीपहानन्तरं प्रमादपदमुपन्यस्तं शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टेघमंमि जो पमायइ अत्थे वा सीअलुत्ति तं विति । उजुत्तं पुण अन्नं तत्तो उहंति णं चिंति ॥२०५ ॥ वारं। | 'धर्मे' श्रमणधर्मे यः 'प्रमाद्यति'नोद्यमं विधत्ते 'अर्थे वा' अर्थ्यत इत्यर्थो-धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं 'ब्रुवते' आचक्षते, उद्युक्तं पुनरन्यं ततः-संयमोघमात् कारणादुष्णमित्येवं अवते, णमिति वाक्यालङ्कार इति गाथार्थः॥ उपशमपदव्याचिख्यासयाऽऽहसीईभूओ परिनिव्वुओ य संतोतहेव पण्हाणो (ल्हाओ)।होउवसंतकसाओतेणुवसंतो भवे जीवो॥२०६॥दारं।
उपशमो हि क्रोधाद्युदयाभावे भवति, ततश्च कषायान्युपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिवृतो भवति, चः समुच्चये, रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रहादितः' आपन्नसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थिकानि वैतानीति गाथार्थः ॥ अधुना विरतिपदव्याख्यामाहअभयकरो जीवाणं सीयघरो संजमो भवइ सीओ। अस्संजमो य उण्हो एसो अन्नोऽवि पज्जाओ॥२०७॥दारं। अभयकरण शीलः, केषां?-जीवानां, शीतं-सुखं तद्गृह-तदावासः, कोऽसौ ?-संयमः सप्तदशभेदः, अतोऽसौ शीतो
P
॥१५॥