________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥१४२॥
लोक.वि.२ उद्देशकः ६
जे ममाइयमइं जहाइ से चयइ ममाइयं, से हु दिटुपहे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिज्जासि तिबेमि॥
नारइं सहई वीरे, वीरे न सहई रति।जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ॥१॥(सू०९८) ममायित-मामकं तत्र मतिमायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायित' स्वीकृतं परिRI ग्रह 'जहाति' परित्यजति, इह द्विविधः परिग्रहो-द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः,
परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावान्नगरादिसम्बन्धि पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमि| त्याह-'से हु' इत्यादि, यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षापारम्पर्येण व पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह-'जस्स' इत्यादि, यस्य 'ममायित' स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः, किं च-तं' इत्यादि, 'त' पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञात
CAGOGICX**
गरादिसम्बर कविघ्नहतोः संसारच
भयः-अवगतस्तापरित्यागे ज्ञातभम भयो मुनिरिति ।
॥१४२॥