SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) लोक.वि.२ उद्देशक ॥१४०॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोके ममत्वं न कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते-अस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैवमनगारस्य जायत' इत्यभिहितम् , एतदेवात्रापि प्रतिपिपादयिषुराह से तं संबुज्झमाणे आयाणीयं समुद्राय तम्हा पावकम्मं नेव कुज्जा न कारवेज्जा (सू०९ यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुख्यमानःअवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् 'उत्थाये'त्यनेकार्थत्वादादाय-गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवगैंककारणमित्येवं सम्यगवबुद्ध्यमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्व सावद्यं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात् कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलं, अपरेणापि न कारयेदिति, आह च-न कारवे' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराचापरं कुर्वन्तं न समनुजानीयाद्योगत्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढोकते आहोस्विन्नेत्याह ॥१४०॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy