SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ RECAR न परिग्रहो धर्मोपकरणम्, उक्तं च-"ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युनयः। यशःसुखपिपासितैरयमसावनोंत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥१॥" नैष दोषः, न हि धर्मोंपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः- "अवि अप्पणोऽवि देहमि, नायरंति ममाइ", यदिह परिगृहीतं कर्मबन्धायोपकल्पते स परिग्रहो, यत्तु पुनः कर्मनिज्जेरणार्थ प्रभवति तत्सरिग्रह एव न भवतीति । आह च____ अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोव लिंपिज्जासि तिबेमि (सू० ९१) णमिति वाक्यालङ्कारे, 'अन्यथे'त्यन्येन प्रकारेण पश्यकः सन् परिग्रह परिहरेत् , यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशयः-आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च-"साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥१॥" अत्र चाहताभासैक्रेटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह-एस मग्गे' इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः-अनन्तरोक्तो मार्गः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिस्वातिपुत्राभ्यां १ अप्यात्मनोऽपि देहे नाचरन्ति ममायितुम्. REARRIAL
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy