________________
जाणेजा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात्-शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः-शुद्धं गृह्णीयादशुद्धं परिहरेदितियावत्, किं तद्विजानीयात् ?-वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा| पतग्रह-पात्रम्, एतद्हणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपु छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूँढा, तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा-देवेन्द्रावग्रहः १. राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्मूढाः, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादि विष्टरमिति, आस्यते-स्थीयते अस्मिन्निति वाssसनं-शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियूंढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि । चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात् , सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिब्रजेरिति भावार्थः । एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन यावल्लाभं गृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह
लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्ति न मजिजा,
अलाभुत्ति न सोइजा, बहुंपि लटुं न निहे, परिग्गहाओ अप्पाणं अवसक्किजा (सू०९०) 'लब्धे' प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौपधादिके 'अनगार' भिक्षुः 'मात्रां जानीयात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथा