SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥१२३॥ इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह-'तंपि से' इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभो-४ उद्देशकः३ गायोपार्जितं सत् 'से'तस्यार्थोपार्जनोपायक्लेशकारिणः 'एकदा'भाग्यक्षये 'दायादाः' पितृपिण्डोदकदानयोग्याः 'विभजन्ते' विलुम्पन्ति, 'अदत्तहारो वा' दस्युर्वा अपहरति, राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति 'नश्यति वा स्वत एवाटवीतः 'से'तस्य 'विनश्यति वा' जीर्णभावापत्तेः 'अगारदाहेन वा' गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति-'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थों नाशमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योसादयिता परस्मै-अन्यस्मै अर्थाय-प्रयोजनाय अन्यप्रयोजनकृते 'क्रूराणि' गलकर्त्तनादीनि 'कर्माणि' अनुष्ठानानि 'वालः' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्मविपाकापादितेन 'दुःखेन' असातोदयेन (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगतसदसद्विवेकत्वात्कार्यमकार्य मन्यते व्यत्ययं चेति, उक्तं च-"रागद्वेषाभिभूतत्वाकार्याकार्यपराङ्मुखः । एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ १ ॥" तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्च मया न स्वमनीषिकयोच्यते सुधर्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तहींदमित्यत आह'मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनिः-तीर्थकृत्तेन 'एतद्' असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षणादौ वा ॥ सर्वस्वभाषानुगामिन्या वाचा वेदितं-कथितं वक्ष्यमाणं च प्रवेदितं, किं तदित्याह–'अणोह' इत्यादि, ओपो द्विधा ॥१२ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy