________________
लोक.वि.२ उद्देशकः१
श्रीआचा- शरथलाभः संस्तान्निजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राराङ्गवृत्तिः णाय भवन्तीत्याह-'नालं' इत्यादि, 'ते' निजा मातापित्रादयः, तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय' आपद्रक्षणार्थ (शी०) 'शरणाय'निर्भयस्थित्यर्थ 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्तुं नालमिति ॥ तदेवं तावत्स्वजनो न त्राणाय
भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येतत्प्रतिपिपादयिषुराह॥१०८॥
उवाईयसेसेण वा संनिहिसंनिचओ किजई, इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुटिव परिहरंति, सो वा ते नियगे पच्छा परिहरिज्जा, नालं ते तव ताणाए
वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा (सू०६७) 'उपादिते'ति 'अद भक्षणे' इत्येतस्मादुपपूर्वान्निष्ठाप्रत्ययः, तत्र 'वहुलं छन्दसी'तीडागमः, उपादितम्-उपभुक्तं, तस्य शेषमुपभुक्तशेष, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानं-सन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग् निधीयते-अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचयः-प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स 'इह' अस्मिन्संसारे 'एकेषाम्' असंयतानां संयताभासानां वा केषाञ्चिद् 'भोजनाय' उपभोगार्थ 'क्रियते' विधीयत
॥१०८॥