________________
मोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं च-"केवली णं भंते!
अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेजा, पभू णं भंते ! केवली तेसु चेवागासप६ देसेसु पडिसाहरित्तए?, णो इणढे समहे, कहं ?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली
णो सञ्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म बध्यते तदीर्यापथिकम्-ईर्याप्रभवं, ईोहेतुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति ?, उच्यते, यतस्तप्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च-"अप्पं बायरमज्यं बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥१॥" अल्पं स्थितितः स्थितेरेवाभावात् , बादरं परिणामतोऽनुभावतो मृद्वनुभावं, बहु च बहुप्रदेशैः, रूक्षं सर्शतो, वर्णेन शुक्लू, मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति । उक्तमीर्यापथिकम् , अधुना आधाकर्म, यदोधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्था
केवली भदन्त ! अस्मिन् समये येयाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह्य प्रतिसंहरेत् , प्रभुर्भदन्त! केवली तेम्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम् !, नैषोDISर्थः समर्थः, कथम् ?, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्रोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम्.