________________
स्रस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागन्यूनावन्तर्मुहूर्तमवाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टात् सङ्ख्येयगुणहीनो जघन्य इति, यशःकीर्युच्चैर्गोत्रयोरष्टमुहूर्त्तान्यन्तर्मुहूर्तमवाधा, देवनारकायुषोर्दश वर्षसहस्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमवाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवो|त्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगकर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभप्रकृतीनां कोशातकीरससमक्वथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो, मन्दानुभावस्तु
जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातएकीक्षुरसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः
क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावे
दनीयभावेन विपरिणमन्ते, पड्डिधबन्धकस्य त्वायुम्र्मोहनीयवर्जः पोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधवन्धकस्याष्टभा.सू.१७ घेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयति-तत्रा
SAGAR
-
CHA