________________
परि रूपादिप्रवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति-अध्रुववर्गणोपरि प्रदेशवृद्ध्याऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमासडख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपोत्तरादिवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवगणात उत्कृष्टा त्वसख्येयभागप्रदेशगुणा, तदसख्येयभागोऽप्यसङ्ख्येयलोकात्मक इति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या वादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासड्ख्ययभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्धचा जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसख्येयगुणा, को गुणकार इति?, उच्यते, ४ अङ्गुलासङ्ख्येयभागप्रदेशराशेरावलिकाकालासङ्ख्येयभागसमयप्रमाणकृतपौनःपुन्यवर्गमूलस्यासख्येयभागप्रदेशप्रमाण
इति, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासंख्येयभागसमयगुणा, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्रीकृतलोकस्यासख्येयाः श्रेण्यः, ताश्च प्रतरासख्येयभागतुल्या इति, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टा क्षेत्रपल्योपमस्यासड्ख्येयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाक्कायलक्षणः पञ्चदशधा, कथमिति?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुओं, एवं वाग्योगोऽपि, काय
KAXARAKAARAKARK+