________________
मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकं, आदिमूलं नाम यद्वृक्षादिमूलोत्सत्तावाद्यं कारणं, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्त्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिवर्त्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्सद्यते व्याख्यायते वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः । तथाहि| ओदइयं उवदिवा आइ तिगं मूलभाव ओदइ। आयरिओ उवदिहा विणयकसायादिओ आई ॥१७४॥ | भावमूलं त्रिविधम्-औदयिकभावमूलम् उपदेष्टमूलम् आदिमूलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा, यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति-'विणयकसाआइओ आई' तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह-"विर्णया णाणं णाणाउ दसणं दसणाहि चरणं तु । चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ॥१॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः॥२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् ।
१ विनयात् शान ज्ञानाद्दर्शनं ज्ञानदर्शनाभ्यां चरणं तु । ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् ॥१॥